|
|
 |
 |
|
|
३ आरण्यकपर्व.jpg)
॥ श्रीः ॥
3.308. अध्यायः 308
Mahabharata - Vana Parva - Chapter Topics
कुन्त्या सङ्गमन्तरा दुश्शकानुनये भास्करे कृच्छ्रात्तदङ्गीकरणम् ॥ 1 ॥ सूर्येण पुनः कन्यात्वलाभरूपवरदानपूर्वकं तस्यां गर्भाधानम् ॥ 2 ॥
Mahabharata - Vana Parva - Chapter Text
वैशम्पायन उवाच। 3-308-0x(2841)(27742)
सा तु कन्या बहुविधं ब्रुवन्ती मधुरं वचः।
अनुनेतुं सहस्रांशुं न शशाक मनस्विनी ॥ 3-308-1(27743)
न शशाक यदा बाला प्रत्याख्यातुं तमोनुदम्।
भीता शापात्ततो राजन्दध्यौ दीर्घमथान्तरम् ॥ 3-308-2(27744)
अनागसः पितुः शापो ब्राह्मणस्य तथैव च।
मन्निमित्तः कथं न स्यात्क्रुद्धादस्माद्विभावसोः ॥ 3-308-3(27745)
बालेनापि सता मोहाद्भृशं सापह्नवान्यपि।
नाऽभ्यासादयितव्यानि तेजांसि च तपांसि च॥ 3-308-4(27746)
साहमद्य भृशं भीता गृहीत्वा च करे भृशम्।
कथं त्वकार्यं कुर्यां वै प्रदानं ह्यात्मनः स्वयम् ॥ 3-308-5(27747)
सा वै शापपरित्रस्ता बहु चिन्तयती हृदा।
मोहेनाभिपरीताङ्गी स्मयमाना पुनःपुनः ॥ 3-308-6(27748)
तं देवमब्रवीद्भीता बन्धूनां राजसत्तम।
व्रीडाविह्वलया वाचा शापत्रस्ता विशांपते ॥ 3-308-7(27749)
पिता मे ध्रियते देव माता चान्ये च बान्धवाः।
न तेषु ध्रियमाणएषु विदिलोपो भवेदयम् ॥ 3-308-8(27750)
त्वया तु संगमो देव यदि स्याद्विधिवर्जितः।
मन्निमित्तं कुलस्यास्य लोकेऽकीर्तिर्न संशयः ॥ 3-308-9(27751)
अथवा धर्ममेतं त्वं मन्यसे तपतांवर।
ऋते प्रदानाद्बन्धुभ्यस्तव कामं करोम्यहम् ॥ 3-308-10(27752)
आत्मप्रदानं दुर्धर्ष तव कृत्वासती त्वहम्।
त्वयि धर्मो यशश्चैव कीर्तिरायुश्च देहिनाम् ॥ 3-308-11(27753)
सूर्य उवाच। 3-308-12x(2842)
न ते पिता न ते माता गुरवो वा शुचिस्मिते।
प्रभवन्ति प्रदाने ते भद्रं ते शृणु मे वचः ॥ 3-308-12(27754)
सर्वान्कामयते यस्मात्कनेर्धातोश्च भामिनि।
तस्मात्कन्येह सुश्रोणी स्वतन्त्रा वरवर्णिनि ॥ 3-308-13(27755)
नाधर्मश्चरितः कश्चित्त्वया भवति भामिनि।
अधर्मंकुत एवाहं वरेयं लोककाम्यया ॥ 3-308-14(27756)
अनावृताः स्त्रियः सर्वा नराश्च वरवर्णिनि।
स्वभाव एष लोकानां विकारोऽन्य इति स्मृतः ॥ 3-308-15(27757)
सा मया सहसंगम्य पुनः कन्या भविष्यसि।
पुत्रश्च ते महावाद्दुर्भविष्यति न संशयः ॥ 3-308-16(27758)
कुन्त्युवाच। 3-308-17x(2843)
यदि पुत्रो मम भवेत्त्वत्तः सर्वतमोनुद।
कुण्डली कवची शूरो महाबाहुर्महाबलः।
`अस्तु मे सङ्गमो देव अनेन समयेन ते' ॥ 3-308-17(27759)
सूर्य उवाच। 3-308-18x(2844)
भविष्यति महाबाहुः कुण्डली दिव्यवर्मभृत्।
उभयं चामृतमयं तस् भद्रे भविष्यति ॥ 3-308-18(27760)
कुन्त्युवाच। 3-308-19x(2845)
यद्यतदमृतादस्ति कुण्डले वर्म चोत्तमम्।
मम पुत्रस्य यं वै त्वं मत्त उत्पादयिष्यसि ॥ 3-308-19(27761)
अस्तु मे सङ्गमो देव यथोक्तं भगवंस्त्वया।
त्वद्वीर्यरूपसत्वौजा धऱ्मयुक्तो भवेत्स च ॥ 3-308-20(27762)
सूर्य उवाच। 3-308-21x(2846)
अदित्या कुण्डले राज्ञि दत्ते मे मत्तकाशिनि।
तस्मै दास्यामि वामोरु वर्म चैवेदमुत्तमम् ॥ 3-308-21(27763)
वैशम्पायन उवाच। 3-308-22x(2847)
परमं भगवन्नेवं सङ्गमिष्ये त्वया सह।
यदि पुत्रो भवेदेवं यथा वदसि गोपते ॥ 3-308-22(27764)
वैशम्पायन उवाच। 3-308-23x(2848)
तथेत्युक्त्वा तु तां कुन्तीमाविवेश विहंगमः।
स्वर्भानुशत्रुर्योगात्मा नाभ्यां पस्पर्श चैव ताम् ॥ 3-308-23(27765)
तत सा विह्वलेवासीत्कन्या सूरय्स् तेजसा।
पपात चाथ सा देवी शयने मूढचेतना ॥ 3-308-24(27766)
सूर्य उवाच। 3-308-25x(2849)
साधयिष्यामि सुश्रोणि पुत्रं वै जनयिष्यसि।
सर्वशस्त्रभृतांश्रेष्ठं कन्या चैव भविष्यसि ॥ 3-308-25(27767)
वैशम्पायन उवाच। 3-308-26x(2850)
ततः सा व्रीडिता बाला तदा सूर्यमथाब्रवीत्।
एवमस्त्विति राजेन्द्रप्रस्थितं भूरिवर्चसम् ॥ 3-308-26(27768)
इतिस्मोक्ता कुन्तिराजात्मजा सा
विवस्वन्तं याचमाना सलज्जा।
तस्मिन्पुण्ये शयनीये पपात
मोहाविष्टा वेपमाना लतेव ॥ 3-308-27(27769)
तिग्मांशुस्तां तेजसा मोहयित्वा
योगेनाविश्यात्मसंस्थां चकार।
न चैवैनां दूषयामास भानुः
संज्ञां लेभे भूय एवात बाला ॥ 3-308-28(27770)
इति श्रीमन्महाभारते अरण्यपर्वणि कुण्डलाहरणपर्वणि रअष्टाधिकत्रिशततमोऽध्यायः ॥ 308 ॥
Mahabharata - Vana Parva - Chapter Footnotes
3-308-2 दध्यौ चिन्तितवती। अन्तरं कालम् ॥ 3-308-4 बालेनाल्पवयसापि सता साधुना मोहाच्चित्तपारवश्यात् तेजासि सूर्यादीनि तपांसि दुर्वासआदीनि नाभ्यासादयितव्यान्यत्यन्तं प्रत्यासत्तिविषयाणि न कर्तव्यानि ॥ 3-308-7 बन्धूनां बन्धुभ्य इत्यर्थः ॥ 3-308-8 ध्रियते जीवति ॥ 3-308-12 प्रभवन्ति स्वाम्यमर्हन्ति ॥ 3-308-13 कामयते सर्वानिति कन्येति कन्याशब्दनिर्वचनम् ॥ 3-308-14 तत्रहेतुः लोककाम्यया लोकप्रियया कामवत्तया ॥ 3-308-15 अन्यो विवाहनियमादिर्विकारः ॥ 3-308-18 अमृतमयं सहजं वर्म ॥ 3-308-26 प्रस्थितं संगमायोपक्रन्तम् 3-308-28 आत्मसंस्थांवचनवशाम्। एनां न दूषयामास। कन्यात्वस्थापनेनेति शेषः ॥

|
 100000 shlokas.jpg)
|
|
"Bharathiya Sanatana Dharm" and Sanatana Dharmam & Dharmo rakshati Rakshitha logo are our trademarks. Unauthorised use of "Sanatana Dharmam & Dharmo rakshoati Rakshitha" and the logo is not allowed. Copyright © sanatanadharm.com All Rights Reserved . Made in India. |
| |
| |
|
|
| |
|
|
| |
|
|